धर्म एवं दर्शन >> श्रीविष्णुसहस्रनामस्तोत्र श्रीविष्णुसहस्रनामस्तोत्रमहर्षि वेदव्यास
|
2 पाठकों को प्रिय 361 पाठक हैं |
महाभारत के अन्त में भीष्म द्वारा युधिष्ठिर को दिये गये परमात्म ज्ञान का सारांश भगवान विष्णु के सहस्त्र नामों में।
इतीदं कीर्तनीयस्य केशवस्य महात्मनः ।
नाम्नां सहस्रं दिव्यानामशेषेण
प्रकीर्तितम्॥121॥
य इदं श्रृणुयान्नित्यं यश्चापि
परिकीर्तयेत् ।
नाशुभं प्राप्नुयात्किञ्चित्सोऽमुत्रेह च
मानवः॥122॥
वेदान्तगो ब्राह्मणः स्यात्क्षत्रियो
विजयी भवेत् ।
वैश्यो धनसमृद्धः स्याच्छूद्रः
सुखमवाप्नुयात्॥123॥
धर्मार्थी प्राप्नुयाद्धर्ममर्थार्थी
चार्थमाप्नुयात् ।
कामानवाप्नुयात्कामी प्रजार्थी
प्राप्नुयात्प्रजाम्॥124॥
भक्तिमान्यः सदोत्थाय शुचिस्तद्गतमानसः ।
सहस्रं वासुदेवस्य
नाम्नामेतत्प्रकीर्तयेत्॥125॥
यशः प्राप्नोति विपुलं ज्ञातिप्राधान्यमेव
च ।
अचलां श्रियमाप्नोति श्रेयः
प्राप्नोत्यनुत्तमम्॥126॥
न भयं क्वचिदाप्नोति वीर्यं तेजश्च
विन्दति ।
भवत्यरोगो द्युतिमान्बलरूपगुणान्वितः॥127॥
रोगार्तो मुच्यते रोगाद् बद्धो मुच्येत
बन्धनात् ।
भयान्मुच्येत भीतस्तु मुच्येतापन्न
आपदः॥128॥
दुर्गाण्यतितरत्याशु पुरुषः पुरुषोत्तमम्
।
स्तुवन्नामसहस्रेण नित्यं
भक्तिसमन्वितः॥129॥
वासुदेवाश्रयो मर्त्यो वासुदेवपरायणः ।
सर्वपापविशुद्धात्मा याति ब्रह्म
सनातनम्॥130॥
|