धर्म एवं दर्शन >> श्रीविष्णुसहस्रनामस्तोत्र श्रीविष्णुसहस्रनामस्तोत्रमहर्षि वेदव्यास
|
2 पाठकों को प्रिय 361 पाठक हैं |
महाभारत के अन्त में भीष्म द्वारा युधिष्ठिर को दिये गये परमात्म ज्ञान का सारांश भगवान विष्णु के सहस्त्र नामों में।
वेद्यो वैद्यः सदायोगी वीरहा माधवो मधुः ।
अतीन्द्रियो महामायो महोत्साहो महाबलः॥31॥
महाबुद्धिर्महावीर्यो
महाशक्तिर्महाद्युतिः ।
अनिर्देश्यवपुः श्रीमानमेयात्मा
महाद्रिधृक्॥32॥
महेष्वासो महीभर्ता श्रीनिवासः सतां गतिः
।
अनिरुद्धः सुरानन्दो गोविन्दो गोविदां
पतिः॥33॥
मरीचिर्दमनो हंसः सुपर्णो भुजगोत्तमः ।
हिरण्यनाभः सुतपाः पद्मनाभः प्रजापतिः॥34॥
अमृत्युः सर्वदृक् सिंहः सन्धाता
सन्धिमान्स्थिरः।
अजो दुर्मर्षणः शास्ता विश्रुतात्मा
सुरारिहा॥35॥
गुरुर्गुरुतमो धाम सत्यः सत्यपराक्रमः ।
निमिषोऽनिमिषः स्रग्वी
वाचस्पतिरुदारधीः॥36॥
अग्रणीर्ग्रामणीः श्रीमान्न्यायो नेता
समीरणः ।
सहस्रमूर्धा विश्वात्मा सहस्राक्षः
सहस्रपात्॥37॥
आवर्तनो निवृत्तात्मा संवृतः सम्प्रमर्दनः
।
अहः संवर्तको वह्निरनिलो धरणीधरः॥38॥
सुप्रसादः प्रसन्नात्मा
विश्वधृग्विश्वभुग्विभुः ।
सत्कर्ता सत्कृतः साधुर्जह्नुर्नारायणो
नरः॥39॥
असंख्येयोऽप्रमेयात्मा विशिष्टः
शिष्टकृच्छुचिः ।
सिद्धार्थः सिद्धसंकल्पः सिद्धिदः
सिद्धिसाधनः॥40॥
|