धर्म एवं दर्शन >> श्रीविष्णुसहस्रनामस्तोत्र श्रीविष्णुसहस्रनामस्तोत्रमहर्षि वेदव्यास
|
2 पाठकों को प्रिय 361 पाठक हैं |
महाभारत के अन्त में भीष्म द्वारा युधिष्ठिर को दिये गये परमात्म ज्ञान का सारांश भगवान विष्णु के सहस्त्र नामों में।
वृषाही वृषभो विष्णुर्वृषपर्वा वृषोदरः ।
वर्धनो वर्धमानश्च विविक्तः
श्रुतिसागरः॥41॥
सुभुजो दुर्धरो वाग्मी महेन्द्रो वसुदो
वसुः ।
नैकरूपो बृहद्रूपः शिपिविष्टः
प्रकाशनः॥42॥
ओजस्तेजोद्युतिधरः प्रकाशात्मा प्रतापनः ।
ऋद्धः स्पष्टाक्षरो
मन्त्रश्चन्द्रांशुर्भास्करद्युतिः॥43॥
अमृतांशूद्भवो भानुः शशबिन्दुः सुरेश्वरः
।
औषधं जगतः सेतुः सत्यधर्मपराक्रमः॥44॥
भूतभव्यभवन्नाथः पवनः पावनोऽनलः ।
कामहा कामकृत्कान्तः कामः कामप्रदः
प्रभुः॥45॥
युगादिकृद्युगावर्तो नैकमायो महाशनः ।
अदृश्योऽव्यक्तरूपश्च
सहस्रजिदनन्तजित्॥46॥
इष्टोऽविशिष्टः शिष्टेष्टः शिखण्डी नहुषो
वृषः ।
क्रोधहा क्रोधकृत्कर्ता
विश्वबाहुर्महीधरः॥47॥
अच्युतः प्रथितः प्राणः प्राणदो वासवानुजः
।
अपां निधिरधिष्ठानमप्रमत्तः
प्रतिष्ठितः॥48॥
स्कन्दः स्कन्दधरो धुर्यो वरदो वायुवाहनः
।
वासुदेवो बृहद्भानुरादिदेवः पुरन्दरः॥49॥
अशोकस्तारणस्तारः शूरः शौरिर्जनेश्वरः ।
अनुकूलः शतावर्तः पद्मी पद्मनिभेक्षणः॥50॥
|