| धर्म एवं दर्शन >> श्रीविष्णुसहस्रनामस्तोत्र श्रीविष्णुसहस्रनामस्तोत्रमहर्षि वेदव्यास
 | 
			 361 पाठक हैं | 
महाभारत के अन्त में भीष्म द्वारा युधिष्ठिर को दिये गये परमात्म ज्ञान का सारांश भगवान विष्णु के सहस्त्र नामों में।
      पद्मभानोऽरविन्दाक्षः पद्मगर्भः शरीरभृत्
        ।
      महर्द्धिऋद्धो वृद्धात्मा महाक्षो
        गरुडध्वजः॥51॥
      
      अतुलः शरभो भीमः समयज्ञो हविर्हरिः ।
      सर्वलक्षणलक्षण्यो
        लक्ष्मीवान्समितिञ्ञयः॥52॥
      
      विक्षरो रोहितो मार्गो हेतुर्दामोदरः सहः
        ।
      महीधरो महाभागो वेगवानमिताशनः॥53॥
      
      उद्भवः क्षोभणो देवः श्रीगर्भः परमेश्वरः
        ।
      करणं कारणं कर्ता विकर्ता गहनो गुहः॥54॥
      
      व्यवसायो व्यवस्थानः संस्थानः स्थानदो
        ध्रुवः ।
      परर्द्धिः परमस्पष्टस्तुष्टः पुष्टः
        शुभेक्षणः॥5॥
      
      रामो विरामो विरजो मार्गो नेयो नयोऽनयः ।
      वीरः शक्तिमतां श्रेष्ठो धर्मो
        धर्मविदुत्तमः॥56॥
      
      वैकुण्ठः पुरुषः प्राणः प्राणदः प्रणवः
        पृथुः ।
      हिरण्यगर्भः शत्रुघ्नो व्याप्तो
        वायुरधोक्षजः॥57॥
      
      ऋतुः सुदर्शनः कालः परमेष्ठी परिग्रहः ।
      उग्रः संवत्सरो दक्षो विश्रामो
        विश्वदक्षिणः॥58॥
      
      विस्तारः स्थावरस्थाणुः प्रमाणं
        बीजमव्ययम् ।
      अर्थोऽनर्थो महाकोशो महाभोगो महाधनः॥59॥
      
      अनिर्विण्णः स्थविष्ठोऽभूर्धर्मयूपो
        महामखः ।
      नक्षत्रनेमिर्नक्षत्री क्षमः क्षामः
        समीहनः॥60॥
      			
		  			
| 
 | |||||

 i
 
i                 





 
 
		 

