धर्म एवं दर्शन >> श्रीविष्णुसहस्रनामस्तोत्र श्रीविष्णुसहस्रनामस्तोत्रमहर्षि वेदव्यास
|
2 पाठकों को प्रिय 361 पाठक हैं |
महाभारत के अन्त में भीष्म द्वारा युधिष्ठिर को दिये गये परमात्म ज्ञान का सारांश भगवान विष्णु के सहस्त्र नामों में।
यज्ञ इज्यो महेज्यश्च क्रतुः सत्रं सतां
गतिः ।
सर्वदर्शी विमुक्तात्मा सर्वज्ञो
ज्ञानमुत्तमम्॥61॥
सुव्रतः सुमुखः सूक्ष्मः सुघोषः सुखदः
सुह्रत् ।
मनोहरो जितक्रोधो वीरबाहुर्विदारणः॥62॥
स्वापनः स्ववशो व्यापी नैकात्मा
नैककर्मकृत् ।
वत्सरो वत्सलो वत्सी रत्नगर्भो
धनेश्वरः॥63॥
धर्मगुब्धर्मकृद्धर्मी सदसत्क्षरमक्षरम् ।
अविज्ञाता सहस्रांशुर्विधाता
कृतलक्षणः॥64॥
गभस्तिनेमिः सत्त्वस्थः सिंहो भूतमहेश्वरः
।
आदिदेवो महादेवो देवेशो देवभृद्गुरुः॥65॥
उत्तरो गोपतिर्गोप्ता ज्ञानगम्यः पुरातनः
।
शरीरभूतभृद्भोक्ता कपीन्द्रो
भूरिदक्षिणः॥66॥
सोमपोऽमृतपः सोमः पुरुजित्पुरुसत्तमः ।
विनयो जयः सत्यसंधो दाशार्हः सात्वतां
पतिः॥67॥
जीवो विनयिता साक्षी मुकुन्दोऽमितविक्रमः
।
अम्भोनिधिरनन्तात्मा महोदधिशयोऽन्तकः॥68॥
अजो महार्हः स्वाभाव्यो जितामित्रः
प्रमोदनः ।
आनन्दो नन्दनो नन्दः सत्यधर्मा
त्रिविक्रमः॥69॥
महर्षिः कपिलाचार्यः कृतज्ञो मेदिनीपतिः ।
त्रिपदस्त्रिदशाध्यक्षो महाश्रृंगः
कृतान्तकृत्॥70॥
|