धर्म एवं दर्शन >> श्रीविष्णुसहस्रनामस्तोत्र श्रीविष्णुसहस्रनामस्तोत्रमहर्षि वेदव्यास
|
2 पाठकों को प्रिय 361 पाठक हैं |
महाभारत के अन्त में भीष्म द्वारा युधिष्ठिर को दिये गये परमात्म ज्ञान का सारांश भगवान विष्णु के सहस्त्र नामों में।
महावराहो गोविन्दः सुषेणः कनकांगदी ।
गुह्यो गभीरो गहनो गुप्तश्चक्रगदाधरः॥71॥
वेधाः स्वांगोऽजितः कृष्णो दृढः
संकर्षणोऽच्युतः ।
वरुणो वारुणो वृक्षः पुष्कराक्षो
महामनाः॥72॥
भगवान् भगहानन्दी वनमाली हलायुधः ।
आदित्यो ज्योतिरादित्यः
सहिष्णुर्गतिसत्तमः॥73॥
सुधन्वा खण्डपरशुर्दारुणो द्रविणप्रदः ।
दिविस्पृक्सर्वदृग्व्यासो
वाचस्पतिरयोनिजः॥74॥
त्रिसामा सामगः साम निर्वाणं भेषजं भिषक्
।
संन्यासकृच्छमः शान्तो निष्ठा शान्तिः
परायणम्॥75॥
शुभांगः शान्तिदः स्रष्टा कुमुदः कुवलेशयः
।
गोहितो गोपतिर्गोप्ता वृषभाक्षो
वृषप्रियः॥76॥
अनिवर्ती निवृत्तात्मा संक्षेप्ता
क्षेमकृच्छिवः ।
श्रीवत्सवक्षाः श्रीवासः श्रीपतिः
श्रीमतां वरः॥77॥
श्रीदः श्रीशः श्रीनिवासः श्रीनिधिः
श्रीविभावनः ।
श्रीधरः श्रीकरः श्रेयः
श्रीमाँल्लोकत्रयाश्रयः॥78॥
स्वक्षः स्वंगः शतानन्दो
नन्दिर्ज्योतिर्गणेश्वरः ।
विजितात्मा विधेयात्मा
सत्कीर्तिश्छिन्नसंशयः॥79॥
उदीर्णः सर्वतश्चक्षुरनीशः शाश्वतस्थिरः ।
भूशयो भूषणो भूतिर्विशोकः शोकनाशनः॥80॥
|