धर्म एवं दर्शन >> श्रीविष्णुसहस्रनामस्तोत्र श्रीविष्णुसहस्रनामस्तोत्रमहर्षि वेदव्यास
|
2 पाठकों को प्रिय 361 पाठक हैं |
महाभारत के अन्त में भीष्म द्वारा युधिष्ठिर को दिये गये परमात्म ज्ञान का सारांश भगवान विष्णु के सहस्त्र नामों में।
अर्चिष्मानर्चितः कुम्भो विशुद्धात्मा
विशोधनः ।
अनिरुद्धोऽप्रतिरथः
प्रद्युम्नोऽमितविक्रमः॥81॥
कालनेमिनिहा वीरः शौरिः शूरजनेश्वरः ।
त्रिलोकात्मा त्रिलोकशः केशवः केशिहा
हरिः॥82॥
कामदेवः कामपालः कामी कान्तः कृतागमः ।
अनिर्देश्यवपुर्विष्णुर्वीरोऽनन्तो
धनंजयः॥83॥
ब्रह्मण्यो ब्रह्मकृद्ब्र ह्मा ब्रह्म
ब्रह्मविवर्धनः ।
ब्रह्मविद्ब्राहह्मणो ब्रह्मी ब्रह्मज्ञो
ब्राह्मणप्रियः॥84॥
महाक्रमो महाकर्मा महातेजा महोरगः ।
महाक्रतुर्महायज्वा महायज्ञो महाहविः॥85॥
स्तव्यः स्तवप्रियः स्तोत्रं स्तुतिः
स्तोता रणप्रियः ।
पूर्णः पूरयिता पुण्यः
पुण्यकीर्तिरनामयः॥86॥
मनोजवस्तीर्थकरो वसुरेता वसुप्रदः ।
वसुप्रदो वासुदेवो वसुर्वसुमना हविः॥87॥
सद्ग्तिः सत्कृतिः सत्ता सद्भूतिः
सत्परायणः ।
शूरसेनो यदुश्रेष्ठः सन्निवासः
सुयामुनः॥88॥
भूतावासो वासुदेवः सर्वासुनिलयोऽनलः ।
दर्पहा दर्पदो दृप्तो
दुर्धरोऽथापराजितः॥89॥
विश्वमूर्तिर्महामूर्तिर्दीप्तमूर्तिरमूर्तिमान्
।
अनेकमूर्तिरव्यक्तः शतमूर्तिः शताननः॥90॥
|