धर्म एवं दर्शन >> श्रीविष्णुसहस्रनामस्तोत्र श्रीविष्णुसहस्रनामस्तोत्रमहर्षि वेदव्यास
|
2 पाठकों को प्रिय 361 पाठक हैं |
महाभारत के अन्त में भीष्म द्वारा युधिष्ठिर को दिये गये परमात्म ज्ञान का सारांश भगवान विष्णु के सहस्त्र नामों में।
एको नैकः सवः कः किं यत्तत्पदमनुत्तमम् ।
लोकबन्धुर्लोकनाथो माधवो भक्तवत्सलः॥91॥
सुवर्णवर्णो हेमांगो वरांगश्चन्दनांगदी ।
वीरहा विषमः शून्यो घृताशीरचलश्चलः॥92॥
अमानी मानदो मान्यो लोकस्वामी त्रिलोकधृक्
।
सुमेधा मेधजो धन्यः सत्यमेधा धराधरः॥93॥
तेजोवृषो द्युतिधरः सर्वशस्त्रभृतां वरः ।
प्रग्रहो निग्रहो व्यग्रो नैकश्रृंगो
गदाग्रजः॥94॥
चतुर्मूर्तिश्चतुर्बाहुश्चतुर्व्यूहश्चतुर्गतिः
।
चतुरात्मा
चतुर्भावश्चतुर्वेदविदेकपात्॥95॥
समावर्तोऽनिवृत्तात्मा दुर्जयो दुरतिक्रमः
।
दुर्लभो दुर्गमो दुर्गो दुरावासो
दुरारिहा॥96॥
शुभांगो लोकसारंगः सुतन्तुस्तन्तुवर्धनः ।
इन्द्रकर्मा महाकर्मा कृतकर्मा
कृतागमः॥97॥
उद्भवः सुन्दरः सुन्दो रत्ननाभः सुलोचनः ।
अर्को वाजसनः श्रृंगी जयन्तः
सर्वविज्जयी॥98॥
सुवर्णबिन्दुरक्षोभ्यः सर्ववागीश्वरेश्वरः
।
महाह्रदो महागर्तो महाभूतो महानिधिः॥99॥
कुमुदः कुन्दरः कुन्दः पर्जन्यः
पावनोऽनिलः ।
अमृताशोऽमृतवपुः सर्वज्ञः सर्वतोमुखः॥100॥
|