धर्म एवं दर्शन >> श्रीविष्णुसहस्रनामस्तोत्र श्रीविष्णुसहस्रनामस्तोत्रमहर्षि वेदव्यास
|
2 पाठकों को प्रिय 361 पाठक हैं |
महाभारत के अन्त में भीष्म द्वारा युधिष्ठिर को दिये गये परमात्म ज्ञान का सारांश भगवान विष्णु के सहस्त्र नामों में।
सुलभः सुव्रतः सिद्धः शत्रुजिच्छत्रुतापनः
।
न्यग्रोधोदुम्बरोऽश्वत्थश्चाणूरान्ध्रनिषूदनः
॥101॥
सहस्त्रार्चिः सप्तजिह्वः सप्तैधाः
सप्तवाहनः ।
अमूर्तिरनघोऽचिन्त्यो भयकृद्भयनाशनः॥102॥
अणुर्बृहत्कृशः स्थूलो गुणभृन्निर्गुणो
महान् ।
अधृतः स्वधृतः स्वास्यः प्राग्वंशो
वंशवर्धनः॥103॥
भारभृत्कथितो योगी योगीशः सर्वकामदः ।
आश्रमः श्रमणः क्षामः सुपर्णो
वायुवाहनः॥104॥
धनुर्धरो धनुर्वेदो दण्डो दमयिता दमः ।
अपराजितः सर्वसहो नियन्तानियमो यमः॥105॥
सत्त्ववान्सात्त्विकः सत्यः
सत्यधर्मपरायणः ।
अभिप्रायः प्रियार्होऽर्हः
प्रियकृत्प्रीतिवर्धनः॥106॥
विहायसगतिर्ज्योतिः सुरुचिर्हुतभुग्विभुः
।
रविर्विरोचनः सूर्यः सविता रविलोचनः॥107॥
अनन्तो हुतभुग्भोक्ता सुखदो नैकजोऽग्रजः ।
अनिर्विण्णः सदामर्षी
लोकाधिष्ठानमद्भुतः॥108॥
सनात्सनातनतमः कपिलः कपिरप्ययः ।
स्वस्तिदः स्वस्तिकृत्स्वस्ति
स्वस्तिभुक्स्वस्तिदक्षिणः॥109॥
अरौद्रः कुण्डली चक्री
विक्रम्यूर्जितशासनः ।
शब्दातिगः शब्दसहः शिशिरः शर्वरीकरः॥110॥
|